|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.25. अध्यायः 025
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कद्र्वाऽमृताहरणं चोदितेन गरुडेन स्वपितरि कश्यपे तन्निवेदनम्॥ 1 ॥ तेन तस्य दुष्करत्वकथने गरुडेन स्वेन तस्य सुकरत्वोक्तिः॥ 2 ॥ कश्यपेन गरुडंप्रति गजकच्छपवृत्तान्तकथनपूर्वकं तयोर्भक्षणाद्बलाप्यायनसम्पादनेनामृताहरणचोदना॥ 3 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
तथेत्युक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः।
अमृताहरणे वाचं ततः पितरमब्रवीत्॥ 13-25-1(81885)
कामं वै सूनृता वाचो विसृज्य च मुहुर्मुहुः।
यच्चाप्यनुज्ञां मातुर्वै न च सा ह्यनुमन्यते॥ 13-25-2(81886)
सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै।
भगवन्विनता दासी मम माता महाद्युते॥ 13-25-3(81887)
कद्रूः प्रेषयते चैव दासीयमिति चाब्रवीत्।
आहरामृतमित्येव मोक्ष्यते विनता ततः॥ 13-25-4(81888)
सोहं मातृविमोक्षार्थमाहरिष्य इति ब्रुवन्।
अमृतं प्रार्थितस्तूर्णमाहर्तुं प्रतिनन्द्य वै॥ 13-25-5(81889)
पितोवाच। 13-25-6x(6803)
अमृतं तात दुष्प्रापं देवैरपि कुतस्त्वया।
रक्ष्यते हि भृशं पुत्र रक्षिभिस्तन्निबोध मे॥ 13-25-6(81890)
गुप्तमद्भिर्भृशं साधु सर्वतः परिवारितम्।
अनन्तरमथो गुप्तं ज्वलता जातवेदसा॥ 13-25-7(81891)
ततः शतसहस्राणि अयुतान्यर्बुदानि च।
रक्षन्त्यमृतमत्यन्तं किङ्करा नाम राक्षसाः॥ 13-25-8(81892)
तेषां शक्त्यृष्टिशूलांश्च शतघ्न्यः पट्टसास्तथा।
आयुधा रक्षिणां तात वज्रकल्पाः शिलास्तथा॥ 13-25-9(81893)
ततो जालेन महता अवनद्धं समन्ततः।
अयस्मयेन वै तात वृत्रहन्तुः स्म शासनात्॥ 13-25-10(81894)
तत्त्वमेवंविधं तात कथं प्रार्थयसेऽमृतम्।
सुरक्षितं वज्रभृतां वैनतेय विहङ्गम।
इन्द्रेण देवैर्नागैश्च खड्गैर्गिरिजलादिभिः॥ 13-25-11(81895)
गरुड उवाच। 13-25-13x(6804)
पुत्रगृद्ध्या ब्रवीष्येतच्छृणु तात विनिश्चयम्।
बलवानुपायवानस्मि भूयः किं करवाणि ते॥ 13-25-12(81896)
तमब्रवीत्पिता हृष्टः प्रहसन्वै पुनः पुनः।
यदि तौ भक्षयेस्तात क्रूरौ कच्छपवारणौ॥ 13-25-13(81897)
तथा बलममेयं ते भविता तन्न संशयः।
अमृतस्यैव चाहर्ता भविष्यसि न संशयः॥ 13-25-14(81898)
गरुड उवाच। 13-25-15x(6805)
क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ।
भक्षयिष्याम्यहं तात बलस्याप्यायनं प्रति॥ 13-25-15(81899)
कश्यप उवाच। 13-25-16x(6806)
पर्वतो वै समुद्रान्ते नभः स्तब्ध्वेव तिष्ठति।
उरगो नाम दुष्प्रापः पुरा देवगणैरपि॥ 13-25-16(81900)
गोरुतानि स विस्तीर्णः पुष्पितद्रुमसानुमान्।
तत्र पन्थाः कृतस्तात कुञ्जरेण बलीयसा॥ 13-25-17(81901)
गोरुतान्युच्छ्रयस्तस्य नव सप्त च पुत्रक।
गच्छताऽगच्छता चैव क्षपितः स महागिरिः॥ 13-25-18(81902)
तावान्भूमिसमस्तात कृतः पन्थाः समुत्थितः।
तेन गत्वा स मातङ्गः पिपासुर्युद्धमिच्छति॥ 13-25-19(81903)
तमतीत्य तु शैलेन्द्रं ह्रदः कोकनदायुतः।
कनकेति च विख्यातस्तत्र कूर्मो महाबलः॥ 13-25-20(81904)
गोरुतानि स विस्तीर्णः कच्छपः कुञ्जरश्च सः।
आयामतश्चापि समौ तेजोबलसमन्वितौ॥ 13-25-21(81905)
पुनरावृत्तिमापन्नौ तावेतौ मधुकैटभौ।
जन्मान्तरे विप्रमूढौ परस्परवधैषिणौ॥ 13-25-22(81906)
यदा स नागो व्रजति पिपासुस्तं जलाशयम्।
तदैनं कच्छपो रोषात्प्रतियाति महाबलः॥ 13-25-23(81907)
नखैश्च दशनैश्चापि निमज्योन्मज्य वाऽसकृत्।
विददाराग्रहस्तेन कुञ्जरं तं जलेचरः॥ 13-25-24(81908)
नागराडपि तोयार्थी पिपासुश्चरणैरपि।
अग्रहस्तेन दन्ताभ्यां निवारयति वारिजम्॥ 13-25-25(81909)
स तु तोयादनुत्तिष्ठन्वारिजो गजयूथपम्।
नखैश्च दशनैश्चैव द्विरदं प्रतिषेधति॥ 13-25-26(81910)
निवारितो गजश्रेष्ठः पुनर्गच्छति स्वं वनम्।
पिपासुः क्लिन्नहस्ताग्रो रुधिरेण समुक्षितः॥ 13-25-27(81911)
तौ गच्छ सहितौ पुत्र यदि शक्नोषि भक्षय।
न तौ पृथक्तया शक्यावप्रमत्तौ बले स्थितौ'॥ ॥ 13-25-28(81912)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चविंशोऽध्यायः॥ 25॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-25-17 गोरुतानि गव्यूतीः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|